काश्याः महान् आचार्यः


प्राचीनकाले आन्ध्रदेशे पिनाकिनीतीरे एकस्मिन् ग्रामे नारायणः नाम बालकः आसीत्| सः तस्मिन् ग्रामे स्थितात् कस्माच्चित् अध्यापकात् विद्यां प्राप्नोति स्म| नारायणः बहु बुद्धिमान्, प्रयत्नवान्, जिज्ञासावान् च| तस्मात् कारणात् अध्यापकस्य तस्मिन् बालके अमितप्रीतिः| 

एकस्मिन् दिने वर्गस्य कक्ष्यायाः पश्चात् नारायणः अध्यापकस्य शुश्रूषां कुर्वन् अस्ति| अध्यापकः प्रेम्णा, स्नेहेन तं नारायणं दृष्ट्वा वदति “वत्स, अहं यावत् जानामि तत् सर्वं भवन्तं पाठितवान्| परन्तु भवतः शिक्षां अत्र मा स्थगयतु| भवान् गणितं, विज्ञानशास्त्रान्, विविधानि  दर्शनानि च पठित्वा पण्डितः भवतु” इति|

अध्यापकस्य वचनं श्रुतवान् नारायणः क्षणपर्यन्तं खिन्नः भवति, तथापि अध्यापकस्य उद्देश्यम् अवगत्य, तं नमस्कृत्य, “महानुभाव| भवतः आशीर्वादेन अहम् अग्रे अध्ययनम् अनुवर्तयिष्यामि| भवान् एव मार्गं दर्शयतु|” इति परिपृच्छति| अध्यापकः एकनिमेषं चिन्तयित्वा वदति, “वत्स, अहं मम जीवनस्य अधिकतमसमयम् एतस्मिन् ग्रामे एव आसम्| अतः योग्यम् आचार्यं भवान् कुत्र प्राप्स्यति इति अहं निश्चयेन वक्तुं न शक्नोमि| परन्तु उत्तमाः शिक्षकाः गर्तपुरी इत्यादिषु नगरेषु लभन्ते इति श्रुतवान्| गर्तपुरी इतः बहुदूरम् अस्ति, अतः सावधानेन यात्रां करोतु| शुभं भूयात्|”| नारायणः अध्यापकं प्रणिपत्य, आशीर्वादं स्वीकृत्य, अचिरेण गर्तपुरीं प्राप्नोति|

तावत्पर्यन्तं नारायणः गर्तपुरी सादृशं नगरं न दृष्टवान् आसीत्| गर्तपुरी तस्य स्वग्रामस्य अपेक्षया बहुगुणं ब्रुहत्तरम्| नारायणः गर्तपुर्यां केषाञ्चन शिक्षकानां दर्शनम् करोति| ते नारायणं गर्तपुर्याः समीपे कृष्णानदीतीरे स्थितं धान्यकटकनगरं गन्तुं सूचयन्ति, यतः तत्र महाविहारे अनेके आचार्याः सन्ति| नारायणः तान् नमस्कृत्य, धान्यकटके स्थिते महाविरामं प्राप्नोति| तत्र आचार्याणां शुश्रूषां कुर्वन्, तेभ्यः तर्कशास्त्रं, वादं, बौद्धदर्शनं च पठति| एकवर्षाभ्यन्तरे सः तेषु विषयेषु पारङ्गतः भवति| किन्तु तस्य जिज्ञासा अधिकमेव अभवत्|

तदा आचार्याणां सूचनात् उज्जयिनीं गच्छति| तत्र क्षिप्रानद्यां स्नानानन्तरं महाकालेश्वरस्य दर्शनं करोति| उज्जयिनी संस्कृतकवित्वाय,  साहित्याय, गणिताय, खगोलशास्त्राय च प्रसिद्धा इति शृणोति| उज्जयिन्याः आचार्येभ्यः तेषां विषयाणाम् गबीराध्ययनं करोति| ते आचार्याः नारायणस्य प्रज्ञां, दीक्षां दृष्ट्वा बहुप्रसन्नाः भवन्ति| अचिरात् एव नारायणः तस्य स्वस्य उद्यमात्, आचार्याणाम् आशीर्वादेभ्यः अध्ययनं संपूर्णं करोति| तदा आचार्याः नारायणं उज्जयिन्यां एव अध्यापनं कर्तुं प्रोत्साहयन्ति| 

परन्तु नारायणस्य जिज्ञासा अद्यापि न संतुष्टा| सः चिन्तयति, “अहं यद्यपि दर्शनान्, संस्कृतभाषां, शास्त्रान् च अधीतवान्, तथापि एतस्य विश्वस्य सत्यं किम् इति न जानामि| तत् सत्यं मया ज्ञातव्यम्|” इति| तस्य अभीष्टं ज्ञात्वा आचार्याः नारायणस्य जिज्ञासां, दीक्षां श्लाघन्ति| ते वदन्ति, “वत्स, भवतः प्रश्नाः उन्नताः, गभीराः च, येषाम् उत्तराणि दातुं केवलं पाण्डित्यं न पर्याप्तम्| तदर्थं भवते एकः गुरुः आवश्यकम्, यस्य ज्ञानम् अस्माकं पाण्डित्यात् उपरि भवेत्| तादृशः गुरुः उज्जयिन्यां प्राप्तुं न शक्यते| परन्तु काश्यां तादृशाः ज्ञानसंपन्नाः गुरवः सन्ति इति श्रूयते| अतः भवान् काशीं गत्वा प्रयत्नं करोतु|” नारायणः आचार्यान् भक्त्या, कृतज्ञतया च प्रणिपातं कृत्वा, काशीं गच्छति|  

कशी साक्षात् शिवस्वरूपम् इति नारायणः श्रुतवान् आसीत्| यदा सः काशीं प्राप्नोति, तदा अमितम् आनन्दम् अनुभवति| प्रथमं पावनगङ्गानद्यां स्नानं कृत्वा, काश्याः क्षेत्रपालकस्य कालभैरवस्य, कशीपुराधीश्वर्याः अन्नपूर्णेश्वर्याः दर्शनं च कृत्वा, परमानन्दभरितः भवति| अन्ते नारायणः न केवलं काश्याः, किन्तु सर्वेषां लोकानां प्रभोः विश्वनाथस्य दर्शनं कृत्वा, रोमाञ्चितः भवति| 

परन्तु नारायणः तस्य लक्ष्यं न विस्म्रुतवान्| एकस्य उत्तमस्य गुरोः अन्वेषणं कर्तुं काश्यां सञ्चरति| काश्यां यति देवालयाः सन्ति, तति विद्यालयाः अपि सन्ति इति सः अवलोकयति| काशीपुर्याम् अनेकान् विद्यालयान् पश्यति, यत्र आचार्याः विविधानि शास्त्राणि बोधयन्ति| अग्रिमेषु वर्षत्रयेषु नारायणः वेदान्तस्य, लोकायतस्य, हेतुद्रुष्ट्याः, गणितस्य, रसायनशास्त्रस्य, तर्कशास्त्रस्य च समुद्धताध्ययनं करोति| न केवलं भारतीयशास्त्रेषु, किन्तु अन्येषां देशानां शास्त्रेषु अपि सः प्रावीण्यं प्राप्नोति| कालान्तरे न केवलं छात्राः अपितु आचार्याः नारायणं एतेषु सर्वेषु शास्त्रेषु विद्वान् इति मन्यन्ते|

परन्तु अद्यापि नारायणः तस्य हृदयस्य गहने अनुभवति, तस्य ज्ञानम् असंपूर्णम् इति| एतेषां सर्वेषां शास्त्राणां कः संबन्धः? यद्यपि सर्वाणि शास्त्राणि सत्यमेव भासते, तथापि यं विषयं किञ्चित् शास्त्रं बोधयति, अन्यत् किञ्चित् शास्त्रं तस्य विषयस्य विरोधं करोति इति अपि  भासते| किं सत्यम्? वयं के? वयं एतस्मिन् लोके किमर्थं जाताः? अस्माकं जन्मनां कोऽपि अर्थः अस्ति किम्? अस्माकं शरीराणि विविधेभ्यः रसायनेभ्यः निर्मितानि इति स्पष्टम्| परन्तु रसायनेभ्यः परम् अस्माकम् अस्तित्वम् अस्ति किम्? यदि आत्मा वस्तुतः भवति, तर्हि कुत्र? आत्मानं द्रष्टुं वा, अनुभवितुं वा साध्यं किम्? वेदाः देवानां विषये वदन्ति, अपितु बौद्धाः, जैनाः, लोकायताः च न| विज्ञानशास्त्राणि अपि तथ्यं केवलं प्रमाणात् एव अन्वेषणं कुर्वन्ति| एतान् सर्वान् समन्वयितुं शक्यमेव किम्? एतादृशाः प्रश्नाः विचाराः च नारायणं परिव्याकुलं कुर्वन् आसन्| 

नारायणः तस्य आचार्यान् एतान् प्रश्नान् परिपृच्छति, परन्तु सः तेषां उत्तरेभ्यः संतुष्टः न भवति| प्रत्येकः आचार्यः स्वस्य निपुणतायाः आधारेण परिशीलनं कृत्वा उत्तरान् ददाति| परन्तु नारायणः एतेषां सर्वेषां विषयाणां परस्परसंबन्धाः के इति प्रतिपादयितुं न शक्नोति| तस्मात् तस्य ज्ञानतृष्णा इतोऽपि अधिका वर्धिता आसीत्|

एकस्मिन् शीतले सायङ्काले नारायणः एतान् विषयान् मनसि चिन्तयन् वारणास्याम् अटति| तस्य विचारान् झटिति लिखितुम् इच्छति, यतः अनन्तरं न विस्मरेत्| तत्र समीपे एकं गृहं पश्यति, यस्य अन्तरावेद्यां दीपाः प्रकाशन्ते| तत्र उपविश्य चिन्तयन् लिखन् च आसीत्| तदा सः पृष्ठतः एकं कण्ठं शृणोति: “सर्वे सम्यक् प्रश्नाः एव, वत्स|”  

यदा नारायणः पृष्ठतः पश्यति, तदा कश्चित् पितृव्यः पण्डितः दृश्यते| तस्य पण्डितस्य मुखम् उज्ज्वलम्, दयापूर्णम् च अस्ति| तं दृष्ट्वा नारायणः अप्रयत्नेन नमस्कारं करोति| पण्डितः मन्दं हसित्वा, “अहं काश्यां बहुकालात् वसामि| ध्यानं, स्वाध्यायं कुर्वन् अत्रैव भवामि| त्वया सद्रुशभिः जिज्ञासुभिः सह वार्तालापं कर्तुं मम अनन्दः” इति वदति| नारायणः पण्डितस्य तेजस्विनं मुखं दृष्ट्वा मुग्धः भवति| एषः पण्डितः सामान्यः नास्ति इति चिन्तयित्वा, तावत्पर्यन्तम् तस्य जीवितस्य, विद्याभ्यासस्य च विषयान् तं पण्डितं कथयित्वा, नारायणः, “महोदय, भवता सह वार्तालापस्य, चर्चायाः च द्वारा अहं महत् ज्ञानं प्राप्स्यामि इति भासते। अतः कृपया मां भवतः शिष्यस्य रूपेण स्वीकृत्य मां धन्यं करोतु”, इति हस्तौ संयोज्य प्रार्थयति|

नारायणस्य वचनानि श्रुतवान् सः पण्डितः स्नेहेन, “अवश्यं वत्स| आवां मिलित्वा पठाव| मिलित्वा एतस्य लोकस्य विषयान्, रहस्यान् अनुसन्दधाव| परन्तु वत्स, मम एकः संरोधः अस्ति| अहं रात्रौ एव पाठितुं शक्नोमि| यदि अयं त्वम् अङ्गीकरोसि, तर्हि आवाम् अद्यैव आरम्भं कर्तुं शक्नुवः” इति वदति| तत्क्षणं नारायणः पण्डितं प्रणम्य, तस्य प्रश्नान्, विचारान् पण्डितेन सह चर्चयितुम् आरभते|

तदा आरभ्य प्रतिरात्रौ गुरुशिष्यौ तस्मिन् गृहे मिलित्वा, अनेकाः घण्टाः यावत् अध्ययनं कुरुतः| नारायणः सर्वेषु प्रकारेषु विषयेषु चर्चां कर्तुं सदा उत्सुकः| आचार्यः तितिक्षुः भवन्, नारायणेन सह संभाषयति| नारायणः कदापि न श्रान्तः भवति, आचार्यः अपि न| आचार्यः नारायणं न केवलं नवविषयान् बोधयति, किन्तु नवप्रश्नान् अपि प्रष्टुं प्रोत्साहयति| सः आचार्यः न केवलं भारतीय शास्त्रेषु, विज्ञानेषु, भाषासु च पण्डितः, किन्तु पारसिकेय, यवन, चीनीय भाषासु, शास्त्रेषु च ज्ञानी| बहुवारं नारायणः आचार्यस्य बुद्धेः, प्रतिभायाः च गहनतां दृष्ट्वा विस्मयते|  कदाचित् तयोः चर्चा आरात्रम् प्रचलति| तदा आचार्यः सः रात्रौ एव पाठितुं शक्नोति इति शिष्यं मृदुतया स्मारयित्वा अपगच्छति| अग्रिमे रात्रौ तद्विषये चर्चां पुनः आरम्भं कुरुतः| एवम् आचार्यस्य ज्ञानात्, स्नेहात्, प्रेरणात् च अध्ययनं कुर्वन् नारायणः अतिप्रसन्नः भवति| 

तथैव नारायणः आचार्यस्य निर्देशे त्रयः वर्षाः पर्यन्तं अधीतवति| अस्मिन् काले आचार्यस्य प्रोत्साहेन नारायणः यान् विषयान् सः नवीनतया ज्ञातवान् वा, आविष्क्रुतवान् वा, तेषां विषये भाष्यान्, प्रबन्धान च लिखति| भूयस् सः काश्यां स्थितेषु विद्यालयेषु एतान् नूतनान् विषयान् पाठयति| एतेषां कार्याणां द्वारा नारायणः स्वस्य हृदये प्रसन्नः भवति| 

एकस्मिन् सायङ्काले नारायणः यथाप्रकारं गुरोः गृहं प्राप्नोति| तौ किञ्चित् कालं यावत् अध्ययनं, चर्चां च कुरुतः| अनन्तरम् आचार्यः प्रेम्णा स्वस्य हस्तं नारायणस्य शिरसि स्थापयति| यदा नारायणः हस्तौ संयोज्य आचार्यं पश्यति, तदा सः आचार्यस्य नेत्रयोः अमितप्रीतिं, किञ्चित् गर्वं च विन्दति| आचार्यः वदति “वत्स नारायण, श्वः आरभ्य आवां न मेलिष्यावः| त्वम् एवमेव तव विद्याभ्यासम् अनुवर्तयतु| अस्मिन् लोके ज्ञानस्य सीमाः नास्ति| सदा कुतूहली भव| अध्ययनेन, विचारेण च विना कमपि विषयं मा स्वीकरोतु| यत् त्वम् अवगच्छसि वा अनुभवति वा, तत् एव त्वं जानासि| अन्ते, वत्स, एकं विषयं सदा मनसि स्थापयतु| एतस्मिन् लोके एकः एव पदार्थः अस्ति, यः तथा तथा वर्धते, यं यथा यथा त्वं यच्छसि| सः पदार्थः एव विद्या| अतः सदा विद्यां यः इच्छति तं यच्छ” इति|

तत् श्रुत्वा नारायणः दुःखेन आकुलः भवति| तेन किं वक्तव्यम् इति न जानाति| एकनिमेषानन्तरं रुद्धकण्ठेन अतिकष्टेन “आचार्यवर्य, किम् अभवत्? किमर्थं श्वः आरभ्य भवन्तं मेलितुं न शक्यते? कृपया एवं मा वदतु आर्य| भवतः कृपया अहं कियत् ज्ञानम्, विवेकं च अर्जितवान् इति वक्तुं न शक्नोमि| तस्मात् मयि दयालुः भूत्वा, कृपया भवान् सर्वदा माम् गुरुः भवतु|” इति आचार्यं याचति| 

तदा सः आचार्यः आनन्दाश्रुपूर्णनेत्राभ्यां नारायणं दृष्ट्वा, “वत्स, मां केवलं शारीरिकरूपेण न द्रक्ष्यसि| परन्तु मम प्रीतिः, आशीर्वादः च त्वयि सदा अस्ति| चिन्ता मास्तु वत्स| अस्मिन् लोके कोऽपि शाश्वतया न भवति, अवश्यं न भवितव्यं अपि च|” इति वदन्, शनैः बृहत कान्तिपुञ्जस्य रूपं प्राप्नोति| नारायणः तत् दृश्यं दृष्ट्वा आश्चर्येन, सम्भ्रमेण च स्थाणुः भवति| तस्मात् कान्तिपुञ्जात् आचार्यस्य कण्ठः एवं श्रूयते “पुत्र नारायण, मम वचनं शृणु| द्वयः शताब्देभ्यः पूर्वं अहं काश्यां सरस्वतीभट्ट नाम प्रसिद्धः पण्डितः आसम्| अहं मम गुरूणां कृपया, स्वस्य परिश्रमेण च बहुषु शास्त्रेषु पाण्डित्यं प्राप्तवान्| कालान्तरात् मम गुरूणाम् अपेक्षया अपि अहं सुज्ञः अभवम्| तस्मिन् काले मम सदृशः पण्डितः न केवलं काश्यां, किन्तु अखिलभरतखण्डे एव नास्ति इति जनाः वदन्ति स्म| परन्तु मम कर्मवशात्, दौर्भाग्यवशात्‌ च मम पाण्डित्यात् मम औद्धत्यस्य वर्धनम् अभवत्| यदा अहं कञ्चित् पण्डितं वा, छात्रं वा पश्यामि स्म यः मम तुल्यः भवेत्, तदा मयि ईर्ष्या उद्भवति स्म| (मन्दं हसन्) अहो, मनुष्यस्य अहङ्कारः किं किं चिन्तयितुं, कर्तुं च प्रेरयति! अनेके विद्यालयाः माम् अनुरोधं कृतवन्तः तेषु विद्यालयेषु पाठयितुम्| यद्यपि अहम् अङ्गीकरोमि स्म, तथापि मम समानः पण्डितः कोऽपि न भवेत् इति विचारात् मम पूर्णं ज्ञानं न पाठयामि स्म| एतादृशः विचारः कियान् दोषपूर्णः, अनैतिकः, अमानवीयः च इति मम मनः कदापि न आगच्छति स्म| कथञ्चित् मम अन्तिमेषु दिनेषु अहम् अवगतवान् एते विचाराः कियन्तः व्यर्थाः इति| परन्तु मम विलम्बः जातः| मम विद्यां संपूर्णतया न पाठयितुं कारणात् मरणानन्तरम् अहं ब्रह्मराक्षसः अभवम्| विमोचनमार्गस्य अन्वेषणं कुर्वन् सर्वत्र अटामि स्म। अहो, तानि दिनानि बहु दुःसहानि, वत्स, नारायण। ततः विंशतिवर्षाणां पश्चात् अहं भाग्यवशात् विदेहदेशे वर्धमान नाम महर्षेः दर्शनम् प्राप्तवान्। सः महर्षिः सत्यम् साक्षात् आत्मज्ञानी आसीत्। सः महानुभावः दयया, करुणया च माम् अनुग्रहीतवान्। यद् सुभाषितम् सः मां स्मारयितवान्, तद् अहम् कदापि न विस्मरामि, वत्स। 

यथा धेनु सहस्त्रेषु वत्सो विन्दति मातरम् |

तथा पुराकृतं कर्म कर्तारमनुगच्छति ||

मया अवगतं, मया कृतः दोषः मया एव परिहरणीयः इति| ततः प्रभृति अहं येषां छात्राणाम् अन्वेषणं कुर्वन् आसम्, ये मम ज्ञानं प्राप्तुं शक्नुवन्ति| येषां जिज्ञासा अग्निः इव ज्वलति| यदा केभ्यश्चित् वर्षेभ्यः पूर्वं त्वां दृष्टवान्, तदा अहं मन्ये त्वं ज्ञानाय कल्पसे इति| अचिरात् मम मूल्याङ्कनं सम्यक् अस्ति इति ज्ञात्वा अमोदे|”

आचार्यस्य कथां श्रुत्वा नारायणः कृतविस्मयः भवति| केषाञ्चित क्षणानां पश्चात् नारायणः गुरुं प्रणम्य एवं भाषते, “आचार्य, मम कस्माच्चित् पूर्वजन्मसुकृतात्  अहं भवतः शिष्यः अभवम्| गुरोः ऋणं वस्तुतः कोऽपि कदापि न प्रत्यर्पितुं शक्नोति| परन्तु स्वस्य तृप्त्यर्थम् अहं भवते किञ्चन दातुं वा, कर्तुं वा कामये| मयि कृपा कृत्वा निर्दिशतु”|

मन्दं हसन् आचार्यः करुणापूर्णेन कण्ठेन, “यः अस्मिन् लोके न वर्तिष्यते, तस्मै किम् आवश्यकम्? तथापि अहं त्वाम् एकं विषयं वक्तुम् इच्छामि वत्स| ज्ञानस्य जाति वा, देशः वा, वयः वा, मतं वा नास्ति। ज्ञानस्य सीमाः एव न सन्ति। ज्ञानं कदापि न स्थिरम्| यद् त्वम् इदानीं निश्चयेन सत्यम् इति चिन्तयसि, केषाञ्चित वर्षाणाम् अनन्तरं तद् किञ्चित् भिन्नम् इति ज्ञास्यसि| अहो (मन्दं हसन्), यदा अहं त्वया सह पठन् आसम्, तदा येषु विषयेषु अहं पारङ्गतः इति भावयामि स्म, तेषु मम ज्ञानम् असंपूर्णं वा, मिथ्या वा इति ज्ञातवान्| सदा नूतनं ज्ञानम् आप्नुयाः| तदेव विद्यायाः रहस्यम्| तस्मात् वत्स, सः पण्डितः न, यः कांश्चन विषयान् कस्मिंश्चित् समये ज्ञात्वा, त्यजति| यः अविरतम् अध्ययनं करोति, सः एव पण्डितः| अतः ज्ञानं एकं भाण्डारं इति कदापि मा चिन्तय| ज्ञानम् एषा गङ्गावत् अविरतं प्रवहेत्, वर्धेत च| नारायण, तस्यां ज्ञानगङ्गायां त्वं समुन्नततरङ्गः भवेः| तव ज्ञानं सर्वेभ्यः योग्येभ्यः प्रसारय| यथा यथा ज्ञानं यच्छसि, तथा तथा तव ज्ञानम् अधिकं भवति| काश्याः महान् आचार्यः नारायणः इति समस्तलोकाः वदेयुः| शुभं भूयात्|” इति वदति| 

एवं विमोचनं प्राप्तवान् आचार्यः कान्तिपुञ्जस्य रूपेण शनैः विश्वनाथस्य मन्दिरं प्राप्य, एकवारं चन्द्रवत् उज्ज्वलः भूत्वा, चन्द्रशेखरे ऐक्यम् अभवत्| तत् दृष्ट्वा नारायणः संतोषेण आनन्दबाष्पान् मार्जयित्वा, जगतः पित्रोः विश्वनाथस्य अन्नपूर्णायाः च दर्शनाय गन्तुम् उत्थिष्टति|

**************************

ॐ सर्वेषां स्वस्तिर्भवतु।

सर्वेषां शान्तिर्भवतु।

सर्वेषां पूर्णंभवतु।

सर्वेषां मङ्गलंभवतु।

ॐ शान्तिः शान्तिः शान्तिः॥

**************************

शब्दकोशः

क्र. सं.

संस्कृतशब्दः

आन्ग्लशब्दः

1

अन्तरावेदी

Verandah, Courtyard

2

अधीतवान्

Studied

3

तितिक्षुः

Patient

4

गहनता

Depth, Profundity

5

विस्मयते

Astonished

6

भूयस्

In addition, Moreover

7

आचार्यत्वेन

As a teacher

8

आकुलः

Stunned, Aghast

9

अर्जितवान्

Gained, Earned

10

रुद्धकण्ठेन

With choked throat (full of emotion)

11

आनन्दाश्रुपूर्णनेत्राभ्याम्

(आनन्द + अश्रु + पूर्ण + नेत्राभ्याम्)

With eyes filled with joyous tears

12

शाश्वतया

Permanently

13

कान्तिपुञ्जः

Light beam

14

कालान्तरात्

Over time

15

सुज्ञः

Knowledgeable

16

अनुरोधः

Request

17

अमोदे

Felt happy/delighted (past tense of मोदे)

18

वर्तिष्यते

Not going to exist (future tense of वर्ते)

19

प्रवहेत्

Should flow (प्रवहति)

20

वर्धेत

Should grow (वर्धति)

21

वयः

Age

22

मतम्

Faith, Belief, Religion

23

भवेः

Should be (Madhyama Purusha)

24

समुन्नततरङ्गः

(समुन्नतः + तरङ्गः)

High wave

25

स्थिरम्

Constant, Unchanging

26

आप्नुयाः

Should gain/obtain (आप्नोति)

27

श्लाघन्ति

Praise

28

प्रयत्नवान्

Hardworking, Diligent

29

परिव्याकुली (करोति)

To Confound, To Confuse, To Trouble

30

इतोऽपि (इतः + अपि)

Even more, Still

31

अनुसन्दधाति

To Explore, To Investigate

32

संरोधः

Restriction, Limitation

In ancient times there was a boy named Narayana in a village on the banks of the Pinakini in Andhra.  He used to receive education from a teacher in that village. Narayana was intelligent, diligent and curious. For that reason the teacher had immense love for that boy.

One day after class, Narayana was serving the teacher. The teacher looked at Narayana with love and affection and said, “My child, I have taught you everything I know. But do not stop your education here. You should study mathematics, sciences and various philosophies, and become a scholar.”.

Hearing the teacher’s words, Narayana is dismayed for a moment, yet understanding the teacher’s intention, he bowed to him and said, “Sir, with your blessings I will continue my studies. Please show me the way”. The teacher thought for a minute and said, “Child, I have been in this village most of my life. So I cannot say for sure where you will find a suitable teacher. But I have heard that good teachers are found in cities like Gartapuri. Gartapuri is far from here, so travel carefully. I wish you best.” Narayana bowed to the teacher, accepted his blessings, and soon reached Gartapuri.

Until then Narayana had never seen a city like Gartapuri. Gartapuri was many times larger than his own village. Narayana visits some teachers in Gartapuri. They suggested Narayana to go to the city of Dhanyakataka on the banks of the river Krishna near Gartapuri, as there are many teachers in the Mahavihara there. Narayana bowed to them, and reaches the Mahavihara in Dhanyakata. There, serving the teachers, he studied logic, debate and Buddhist philosophy with them. Within a year he became proficient in those subjects. But his curiosity only grew more.

Then, at the suggestion of the teachers, he went to Ujjayini to study further. There, after taking a bath in the holy river Kshipra, he visited the Mahakaleshwar temple. He had heard that Ujjayini is famous for Sanskrit poetry, literature, mathematics and astronomy. He studied these subjects in depth from the teachers of Ujjayini. The teachers were delighted with Narayana’s talent and dedication. Very soon Narayana completed his studies with his hard work and the blessings of the teachers. The teachers then encouraged Narayana to stay and teach in Ujjayini.

<To be continued>

ప్రాచీనకాలంలో ఆంధ్రదేశంలో పినాకినీతీరంలోని ఒక గ్రామంలో నారాయణుడు అనే బాలుడు ఉండేవాడు. అతడు గ్రామంలోని ఒక అయ్యవారి దగ్గర చదువుకునేవాడు. నారాయణుడు చాలా బుద్ధిమంతుడు, శద్ధాపరుడు మరియు జిజ్ఞాసాపరుడు. అందువలన అయ్యవారికి ఆ అబ్బాయి అంటే చాలా ప్రేమ.

ఒకరోజు తరగతి ముగిసిన తరువాత నారాయణుడు అయ్యవారికి శుశ్రూష చేస్తున్నాడు. అయ్యవారు నారాయణడిని ప్రేమతో, ఆప్యాయతతో చూస్తూ, “అబ్బయ్యా, నాకు తెలిసిన విషయాలన్నీ నీకు నేర్పించా. కానీ నీ చదువును ఇక్కడ ఆపద్దు. నువ్వు గణితం, విజ్ఞానశాస్త్రాలు, తత్వశాస్త్రాలు అధ్యయనం చేసి పండితుడివి కావాలి” అని అన్నాడు.

అయ్యవారి మాటలు విన్న నారాయణుడు ఒక క్షణం ఖిన్నుడైనప్పటికీ, ఆయన ఉద్దేశ్యాన్ని అర్థం చేసుకుని, ఆయనకు  నమస్కరించి, “అయ్యా, మీ ఆశీర్వాదంతో నేను నా చదువును కొనసాగిస్తాను. దయచేసి నాకు మార్గం చూపించండి”, అని అడిగాడు. అయ్యవారు ఒక నిమిషం ఆలోచించి, “అబ్బయ్యా, నేను నా జీవితంలో చాలామటుకు ఈ గ్రామంలోనే ఉండినాను. కాబట్టి నీకు తగిన గురువు ఎక్కడ దొరుకుతాడో నేను ఖచ్చితంగా చెప్పలేను. కానీ గర్తపురి వంటి నగరాల్లో మంచి ఉపాధ్యాయులు దొరుకుతారని నేను విన్నాను. గర్తపురి ఇక్కడి నుంచి చాలా దూరం. జాగ్రత్తగా వెళ్ళిరా. నీకు అంతా శుభం జరగాలి”, అని నిర్దేశించారు. నారాయణుడు అయ్యవారికి ప్రణిపాతం చేసి, ఆయన ఆశీర్వాదం తీసుకొని, త్వరలో గర్తపురి చేరుకున్నాడు.

అప్పటి వరకు నారాయణుడు గర్తపురివంటి నగరాన్ని ఎప్పుడూ చూసి ఉండలేదు. గర్తపురి తన స్వగ్రామం కంటే చాలా రెట్లు పెద్దది. నారాయణుడు గర్తపురిలో కొంతమంది అధ్యాపకులను దర్శించాడు. గర్తపురి సమీపంలో కృష్ణానది ఒడ్డున ఉన్న ధాన్యకటకనగరంలోని మహావిహారంలో చాలా మంది గురువులు ఉన్నారని, అక్కడకు వెళ్ళమని వారు నారాయణుడికి సూచిస్తారు. నారాయణుడు వారికి నమస్కరించి,  ధాన్యకటకంలోని మహావిహారం చేరుకున్నాడు. అక్కడ గురువులకు సేవ చేస్తూ, వారితో తర్కం, సంవాదం మరియు బౌద్ధ తత్వశాస్త్రం అధ్యయనం చేశాడు. ఒక సంవత్సరంలోగా నారాయణుడు ఆ విషయాలలో పారంగతుడు అనిపించుకున్నాడు. కానీ విద్యాభ్యాసం పట్ల అతనికి ఉత్సుకత మరింత పెరిగిందే తప్ప తగ్గలేదు.

అంత మహావిహారంలోని ఆచార్యుల సూచన మేరకు, నారాయణుడు ఉజ్జయినికి ప్రయాణం అయ్యాడు. అక్కడ క్షిప్రానదిలో స్నానం చేసిన తర్వాత, అతడు మహాకాళేశ్వరుడిని సందర్శించాడు. ఉజ్జయిని సంస్కృత కవిత్వం, సాహిత్యం, గణితం మరియు ఖగోళశాస్త్రాలకు ప్రసిద్ధి చెందిందని అతడు తెలుసుకున్నాడు. నారాయణుడు ఉజ్జయినిలోని ఆచార్యుల వద్ద సాహిత్యాన్ని, శాస్త్రాలను లోతుగా అధ్యయనం చేశాడు. ఆ ఆచార్యులు నారాయణుని జ్ఞానాన్ని, దీక్షను చూసి చాలా సంతోషించారు. త్వరలోనే నారాయణుడు తన శ్రమతో, ఆచార్యుల ఆశీర్వాదంతో తన చదువును పూర్తి చేశాడు. అంత ఆ ఆచార్యులు నారాయణుడిని ఉజ్జయినిలోనే ఉండి విద్యార్థులకు ఈ విషయాలను బోధించమని సూచిస్తారు.

కానీ నారాయణుడి జిజ్ఞాస ఇంకా తీరలేదు. “నేను తత్వశాస్త్రం, సంస్కృతభాష మరియు శాస్త్రాల అధ్యయనం చేసినప్పటికీ, ఈ విశ్వం యొక్క సత్యం ఏమిటో నాకు తెలియదు. ఆ సత్యాన్ని నేను తెలుసుకోవాలి.” అని తలపోశాడు. ఇది విన్న ఆచార్యులు నారాయణుడి జిజ్ఞాసను, దీక్షను మెచ్చుకున్నారు. వారు నారాయణునితో, “నాయనా, నీ ప్రశ్నలు ఉన్నతమైనవి, లోతైనవి కూడా. వాటికి సమాధానం ఇవ్వడానికి పాండిత్యం మాత్రమే సరిపోదు. దాని కోసం నీకు మా  పాండిత్యాన్ని మించిన జ్ఞానం ఉన్న గురువు అవసరం. అటువంటి గురువు ఉజ్జయినిలో దొరకడం అసాధ్యం. కానీ కాశీలో అటువంటి జ్ఞానసంపన్నులైన గురువులు ఉన్నారు అని అంటారు. అందువలన నువ్వు కాశీకి వెళ్ళి ప్రయత్నించు”, అని సూచించారు. నారాయణుడు భక్తితో మరియు కృతజ్ఞతతో గురువులకు నమస్కరించి, కాశీకి పయనమయ్యాడు.

కాశీ సాక్షాత్తు శివస్వరూపమని నారాయణుడు విని ఉన్నాడు. కాశీ చేరుకున్నప్పుడు అతడు అమితమైన ఆనందాన్ని అనుభవించాడు. మొదట పవిత్ర గంగానదిలో స్నానం చేసి, తరువాత కాశీక్షేత్ర సంరక్షకుడైన కాలభైరవుడిని, కాశీపురాధీశ్వరి అయిన అన్నపూర్ణేశ్వరిని దర్శించి పరమానందభరితుడయ్యాడు. చివర కాశీకే కాక, అన్ని లోకాలకు ప్రభువైన విశ్వనాథుడిని దర్శించి నారాయణుడు పులకించిపోయాడు.

కానీ నారాయణుడు తన లక్ష్యాన్ని మరచిపోలేదు. మంచి గురువు కోసం వెతుకుతూ కాశీలో తిరిగాడు. కాశీలో ఎన్ని దేవాలయాలు ఉన్నాయో అన్ని విద్యాలయాలు కూడా ఉన్నాయని గమనించాడు. కాశీపురిలో ఆచార్యులు వివిధ శాస్త్రాలను బోధించే పాఠశాలలను చూశాడు. తరువాతి మూడు సంవత్సరాలలో నారాయణుడు వేదాంతం, లోకాయతం, హేతువాదం, గణితం, రసాయనశాస్త్రం మరియు తర్కశాస్త్రాలను క్షుణ్ణంగా అధ్యయనం చేశాడు. అతడు భారతీయ శాస్త్రాలలోనే కాకుండా ఇతర దేశాల శాస్త్రాలలో కూడా ప్రావీణ్యం పొందాడు. కాలక్రమంలో విద్యార్థులే కాక, ఆచార్యులు కూడా నారాయణుడిని ఈ శాస్త్రాలన్నింటిలోనూ పండితుడిగా భావించేవారు.

కానీ అప్పటికి కూడా నారాయణుడు తన జ్ఞానం అసంపూర్ణమని తన హృదయంలో భావించేవాడు. ఈ శాస్త్రాలన్నిటి మధ్య సంబంధం ఏమిటి? అన్ని శాస్త్రాలు నిజమని అనిపించినప్పటికీ, కొన్ని గ్రంథాలు ఇతర గ్రంథాలకు విరుద్ధంగా బోధిస్తున్నట్లు కూడా అనిపిస్తుంది. నిజం ఏమిటి? మనం ఎవరు? మనం ఈ లోకంలో ఎందుకు పుట్టాము? మన జన్మకు ఏదైనా అర్థం ఉందా? మన శరీరాలు వివిధ రసాయనాలతో నిర్మితమయ్యాయనేది స్పష్టం. కానీ మనకు ఆ రసాయనాలకు మించిన అస్తిత్వం ఉన్నదా? ఆత్మ అనేది నిజంగా ఉంటే, అది ఎక్కడ అంటుంది? ఆత్మను చూడటం లేదా అనుభవించడం సాధ్యమేనా? వేదాలు దేవతల గురించి చెప్తాయి. కానీ బౌద్ధులు, జైనులు మరియు లోకాయతులు చెప్పరు. విజ్ఞానశాస్త్రాలు కూడా ఆధారాల ద్వారా మాత్రమే సత్యాన్ని  పరిశోధిస్తాయి. వీటన్నింటినీ సమన్వయం చేయడం సాధ్యమేనా? ఇటువంటి ప్రశ్నలు మరియు ఆలోచనలు నారాయణుడిని కలవరపెట్టేవి.

నారాయణుడు తన ఆచార్యులను ఈ ప్రశ్నలు అడిగేవాడు కానీ వారి సమాధానాలతో సంతృప్తి పొందేవాడు కాదు. ప్రతి ఆచార్యుడు తమ తమ నైపుణ్యం ఆధారంగా విశ్లేషించి సమాధానాలు ఇచ్చేవారు. కానీ నారాయణ ఈ విషయాలన్నిటి మధ్య పరస్పర సంబంధం ఏమిటో ప్రతిపాదించలేకపోయేవాడు. దాంతో అతడి జ్ఞానతృష్ణ మరింత పెరుగుతూ వచ్చింది.

ఒక చలి సాయంకాలం తన మనసులోని ఈ విషయాల గురించి ఆలోచిస్తూ నారాయణుడు వారణాసిలో తిరుగుతున్నాడు. తరువాత మరచిపోకుండా ఉండేందుకు తన ఆలోచనలను వ్రాసుకోవాలనుకున్నాడు. అక్కడ సమీపంలో వాకిట్లో దీపాలు వెలుగుతున్న ఒక ఇల్లు కనపడింది. నారాయణుడు ఆ వాకిట్లో కూర్చొని ఆలోచిస్తూ వ్రాసుకుంటూ ఉన్నాడు. అప్పుడు అతడి వెనుక నుండి ఒక స్వరం వినబడుతుంది: “ఇవన్నీ మంచి ప్రశ్నలే నాయనా”, అని.

నారాయణుడు తన వెనుకకు తిరిగి చూసినప్పుడు ఒక వృద్ధపండితుడు కనబడ్డాడు. ఆయన ముఖం ప్రకాశవంతంగా, దయాపూర్ణంగా ఉంది. ఆయనను చూసి నారాయణుడు అప్రయత్నంగా నమస్కరించాడు. ఆ పండితుడు మెల్లగా నవ్వుతూ, “నేను చాలాకాలంగా కాశీలో నివసిస్తున్నాను. నేను ఇక్కడ ధ్యానము, స్వాధ్యాయము చేస్తూ ఇక్కడే ఉంటున్నాను. నీవంటి జిజ్ఞాసువులతో చర్చించడం నాకు ఆనందాన్నిస్తుంది.” అని అన్నాడు. నారాయణుడు పండితుడి తేజోవంతమైన ముఖాన్ని చూసి ముగ్ధుడయ్యాడు. ఈ పండితుడు సాధారణమైనవాడు కాదు భావించి, ఇప్పటివరకు తన జీవిత, విద్యాభ్యాస విషయాలు ఆ పండితునకు వివరించి నారాయణుడు, “అయ్యా, మీతో మాట్లాడటం ద్వారా, చర్చించడం ద్వారా నేను గొప్ప జ్ఞానాన్ని పొందుతానని అనిపిస్తోంది. అందువలన దయచేసి నన్ను మీ శిష్యుడిగా స్వీకరించి నన్ను ధన్యుడిని చేయండి” అని చేతులు జోడించి ప్రార్థిస్తాడు.

నారాయణుడి మాటలు విన్న ఆ పండితుడు ఆప్యాయంగా, “తప్పక నాయనా. మనం కలిసి అధ్యయనం చేద్దాము. ఈ లోకంలోని విషయాలను,  రహస్యాలను కలిసి అన్వేషిద్దాము. కానీ నాయనా, నాకు ఒక ఇబ్బంది ఉంది. నేను రాత్రిపూట మాత్రమే బోధించగలను. నీకు అది అంగీకారమయితే నేడే ఆరంభించవచ్చు” అని అన్నాడు. తక్షణమే నారాయణుడు పండితుడికి ప్రణమిల్లి, తన ప్రశ్నలను, ఆలోచనలను ఆ పండితుడితో చర్చించడం మొదలుపెట్టాడు.

అది మొదలు ప్రతి రాత్రి గురుశిష్యులు ఇరువురు ఆ ఇంట్లో కలుసుకుని, గంటల తరబడి అధ్యయనం చేసేవారు. నారాయణుడు ఎల్లప్పుడూ అన్ని రకాల అంశాలను చర్చించడానికి ఉత్సుకతతో ఉండేవాడు. ఆచార్యుడు ఎంతో ఓపికగా నారాయణుడితో సంభాషించేవాడు. నారాయణుడు, ఆచార్యుడు ఎప్పటికీ అలసిపోయేవారు కారు. ఆచార్యుడు నారాయణుడికి కొత్త విషయాలను నేర్పించడమే కాకుండా, కొత్త ప్రశ్నలు అడగమని ప్రోత్సహించేవాడు. ఆ ఆచార్యుడు భారతీయ గ్రంథాలు, శాస్త్రాలు మరియు భాషలలో మాత్రమే కాకుండా, పారశీక, యవన మరియు చీనా భాషలు మరియు శాస్త్రాలలో కూడా జ్ఞాని. చాలాసార్లు నారాయణుడు గురువు యొక్క మేధస్సు యొక్క, ప్రతిభ యొక్క లోతును చూసి ఆశ్చర్యపోయేవాడు. కొన్నిసార్లు వారిద్దరి మధ్య చర్చ రాత్రంతా సాగేది.  అప్పుడు ఆచార్యుడు తాను రాత్రిపూట మాత్రమే బోధించగలడని శిష్యుడికి సున్నితంగా గుర్తు చేసి నిష్క్రమించేవాడు. మరుసటి రాత్రి మరల అదే విషయంపై చర్చను ప్రారంభించేవారు. ఆ విధంగా నారాయణుడు గురువు యొక్క జ్ఞానం, ఆప్యాయత మరియు ప్రేరణచే అధ్యయనం చేస్తూ మిక్కిలి సంతోషించేవాడు.

ఆ విధంగా, నారాయణుడు ఆచార్యుడి ఆధ్వర్యంలో మూడు సంవత్సరాలు చదువుకున్నాడు. ఈ సమయంలో, ఆచార్యుని ప్రోత్సాహంతో నారాయణుడు తాను కొత్తగా నేర్చుకున్న, కనుగొన్న విషయాలపై వ్యాఖ్యానాలు మరియు వ్యాసాలు వ్రాసేవాడు. అంతేకాక అతడు కాశీలోని విద్యాలయాల్లో ఈ కొత్త విషయాలను భోధించేవాడు. ఈ కార్యాల ద్వారా నారాయణుడు తన హృదయంలో ఆనందాన్ని పొందేవాడు.

ఒక సాయంత్రం నారాయణుడు యధావిధిగా గురువు ఇల్లు చేరుకున్నాడు.  వారిద్దరు కొంతసేపు అధ్యయనం చేసి, చర్చించుకున్న తరువాత  ఆచార్యుడు ప్రేమగా నారాయణుడి తలపై తన చేయి ఉంచాడు. నారాయణుడు చేతులు జోడించి ఆచార్యుని వైపు చూశాడు. ఆచార్యుని కళ్ళలో మిక్కిలి ప్రేమ, కించిత్తు గర్వం కనిపించాయి. “వత్సా, నారాయణా, రేపటి నుండి మనం కలవము. నువ్వు ఇలాగే నీ విద్యాభ్యాసం కొనసాగించెదవుగాక. ఈ లోకంలో జ్ఞానానికి పరిమితులు లేవు. ఎల్లప్పుడూ కుతూహలంతో ఉండు. అధ్యయనం మరియు విచారణ లేకుండా ఏదీ అంగీకరించవద్దు. నువ్వు ఏమి అర్థం చేసుకుంటావో అనుభవం పొందుతావో అదే నీకు తెలిసినది. చివరగా, నాయనా, ఒక విషయం ఎప్పుడూ మనసులో పెట్టుకో. ఈ లోకంలో నువ్వు ఇచ్చేకొద్దీ పెరిగే పదార్ధం ఒక్కటే ఉంది. ఆ పదార్థమే విద్య. అందువలన ఎవరు కోరుకున్నా వారికి విద్యను ఇవ్వు”, అని ఆచార్యుడు నారాయణుడితో అన్నాడు.

ఇది విన్న నారాయణుడు దుఃఖంతో ఉక్కిరిబిక్కిరి అయి, నోట మాట రాలేదు. ఒక నిమిషం తర్వాత రుద్ధకంఠంతో ఎంతో కష్టం మీద, “ఆచార్యా, ఏమయింది? రేపటి నుండి నేను మిమ్మల్ని కలవడం ఎందుకు కుదరదు? దయచేసి అలా అనవద్దు ఆర్యా. మీ కృప వలన నేను ఎంత జ్ఞానము, వివేకము సంపాదించానో చెప్పనలవి కాదు. అందుచేత నాపై దయయుంచి మీరు ఎప్పటికీ నా గురువుగానే ఉండాలి”, అని గురువును ప్రార్థించాడు. 

అంతట ఆ ఆచార్యుడు ఆనందబాష్పాలతో నిండిన కళ్ళతో నారాయణుడిని చూసి, “నాయనా, నువ్వు నన్ను భౌతికంగా మాత్రమే చూడవు. కానీ నా ప్రేమ ఆశీర్వాదాలు ఎల్లప్పుడూ నీతోనే ఉంటాయి. చింతించకు నాయనా. ఈ లోకంలో ఏదీ శాశ్వతం కాదు. ఏదీ శాశ్వతంగా ఉండకూడదు కూడా”, అని అంటూనే మెల్లగా ఒక పెద్ద కాంతిపుంజంగా మారాడు. ఆ దృశ్యాన్ని చూసిన నారాయణుడు సంభ్రమాశ్చర్యాలతో స్థాణువుగా మారాడు. ఆ కాంతిపుంజం నుండి ఆచార్యుడి స్వరం ఇలా వినిపించింది: “తండ్రీ, నారాయణా, నేను చెప్పబోయే మాటలు విను. రెండు శతాబ్దాల క్రితం నేను కాశీలో సరస్వతీభట్టు అనే ప్రసిద్ధ పండితుడిని. నాకు నా గురువుల కృపచే, నా పరిశ్రమచే అనేక శాస్త్రాలలో పాండిత్యం ప్రాప్తించింది. కాలక్రమంలో నేను నా గురువులకంటే కూడా ఎక్కువ జ్ఞానం సంపాదించాను. ఆ కాలంలో నావంటి పండితుడు కేవలం కాశీలోనే కాక  అది మొత్తం భారతదేశంలో లేడని ప్రజలు అనేవారు. కానీ నా కర్మవశాత్తు, దురదృష్టవశాత్తు నా పాండిత్యం వలన నాలో అహంకారం పెరిగింది. నాతో సరితూగగలడేమో అని అనిపించిన పండితుడినిగానీ, విద్యార్థినిగానీ చూసినప్పుడు, నాలో ఈర్ష్య పుట్టేది. (చిన్నగా నవ్వుతూ) అహో, మనిషి యొక్క అహంకారం ఎటువంటి ఆలోచనలు, పనులు చేయిస్తుందో! చాలా విద్యాలయాలు నన్ను బోధించమని అభ్యర్థించాయి. నేను అంగీకరించేవాడిని కానీ నాతో సమానమైన పాండిత్యం ఎవరూ పొందకూడదు అనే ఆలోచనతో నా పూర్తి జ్ఞానాన్ని బోధించేవాడిని కాదు. అలాంటి ఆలోచన ఎంత దోషపూర్ణం, అనైతికం, అమానుషమైనదో నాకు ఎప్పుడూ అనిపించేది కాదు. ఎలాగో నా చివరి రోజుల్లో ఈ ఆలోచనలు ఎంత వ్యర్థమైనవో నాకు అర్థమైంది. కానీ అప్పటికే ఆలస్యం అయింది. నా జ్ఞానాన్ని పూర్తిగా బోధించకపోవడం వలన నేను మరణానంతరం బ్రహ్మరాక్షసుడినయ్యాను. విమోచనమార్గం వెతుక్కుంటూ ఎల్లెడలా తిరిగేవాడిని. అహో, ఆ రోజులు దుర్భరమైనవి నాయనా. ఇరవై సంవత్సరాల తరువాత నా అదృష్టం కొద్దీ విదేహదేశంలో వర్ధమానుడు అనే మహర్షి యొక్క దర్శనం పొందాను. ఆ మహర్షి నిజంగా ఆత్మసాక్షాత్కారం పొందినవాడు. ఆ మహానుభావుడు దయతో, కరుణతో నన్ను అనుగ్రహించాడు. ఆయన నాకు గుర్తు చేసిన సుభాషితాన్ని నేను ఎప్పటికీ మర్చిపోలేను నాయనా.

యథా ధేను సహస్రేషు వత్సో విందతి మాతరమ్ । 

తథా పురాకృతం కర్మ కర్తారమనుగచ్ఛతి ॥

(వేలకొలది ఆవులు ఉన్న మందలో కూడా దూడ తన తల్లిని ఏ విధంగా కనుగొంటుందో, అదే విధంగా మనిషి పూర్వం చేసిన కర్మ కర్తను వెంబడిస్తుంది.)

నేను చేసిన తప్పును నేనే సరిదిద్దుకోవాలని గ్రహించాను. అప్పటి నుండి ఎవరు నా జ్ఞానాన్ని పొందగలిగే సామర్థ్యం కలిగిఉంటారో, ఎవరి జిజ్ఞాస అగ్నిలా మండుతూ ఉంటుందో,  అటువంటి విద్యార్థుల కోసం వెతుకుతున్నాను. కొన్ని సంవత్సరాల క్రితం నేను నిన్ను చూసినప్పుడు నీవు నా జ్ఞానానికి పాత్రుడవని, అర్హుడవని నేను భావించాను. త్వరగానే నా అంచనా సరైనదని తెలుసుకుని సంతోషించాను.”

ఆచార్యుని కథ విని నారాయణుడు విస్మయం చెందాడు. కొన్ని క్షణాల తర్వాత తేరుకున్న నారాయణుడు గురువుకు నమస్కరించి, “ఆచార్యా, నా పూర్వజన్మసుకృతం వలన నేను మీ శిష్యుడిని అయ్యాను. ఎవరూ నిజంగా గురువు రుణాన్ని తీర్చుకోలేరు. కానీ నా సంతృప్తి కోసం నేను ఏదైనా ఇవ్వాలనుకుంటున్నాను లేదా చేయాలనుకుంటున్నాను. దయచేసి ఆదేశించండి.”

గురువుగారు మెల్లగా నవ్వుతూ కరుణాపూర్ణ కంఠంతో, “ఈ లోకంలోనే ఉండని నా వంటి వారికి ఏమి కావాలి? అయితే, నేను నీకు ఒక విషయం చెప్పాలనుకుంటున్నాను, నాయానా. జ్ఞానానికి జాతి, దేశం, వయస్సు లేదా మతము లేదు. జ్ఞానానికి అంతు లేదు. జ్ఞానం ఎప్పుడూ స్థిరంగా ఉండదు.  నువ్వు ఇప్పుడు ఏది ఖచ్చితంగా సత్యం అని అనుకుంటావో, కొన్ని సంవత్సరాల తరువాత అది కొంచెం భిన్నం అని తెలుసుకుంటావు. అహో (మెల్లగా నవ్వుతూ), నేను నీతో కలసి అధ్యయనం చేస్తున్నప్పుడు నేను ఏ విషయాలలో పారంగతుడిని అనుకునేవాడినో, ఆ విషయాలలో నా జ్ఞానం అసంపూర్ణమనో, తప్పనో తెలుసుకున్నాను. ఎల్లప్పుడూ కొత్త జ్ఞానం సంపాదించు. అదే విద్య యొక్క రహస్యం. కాబట్టి, నాయనా, పండితుడంటే ఏదో ఒక సమయంలో కొన్ని విషయాలు నేర్చుకుని వదిలేసిన వాడు కాడు. ఎవరైతే ఎల్లప్పుడూ అధ్యయనం చేస్తూ ఉంటాడో, వాడే నిజమైన పండితుడు. అందువలన జ్ఞానం అనేది ఒక భాండారం అని ఎప్పుడూ భావించవద్దు. జ్ఞానం ఈ గంగలా ప్రవహిస్తూ, వర్ధిల్లుతూ ఉండాలి. నారాయణా, ఆ జ్ఞానగంగలో నువ్వు ఒక ఉత్తుంగకెరటమవ్వాలి.  నీ జ్ఞానాన్ని యోగ్యులైనవారందరికీ అందించు. నువ్వు జ్ఞానాన్ని ఇచ్చేకొద్దీ నీ జ్ఞానం ఇంకా వర్ధిల్లుతుంది. కాశీనగర మహాచార్యుడు నారాయణుడు అని అన్ని లోకాలు అనాలి. శుభం జరుగుగాక.” అది అన్నాడు.

ఆ విధంగా విముక్తి పొందిన ఆచార్యుడు కాంతిపుంజరూపంలో మెల్లగా విశ్వనాథ ఆలయానికి చేరుకొని, ఒక్కసారి చంద్రుడిలా ప్రకాశవంతంగా మారి, ఆ చంద్రశేఖరుడిలో ఐక్యమయ్యాడు. అది చూసిన నారాయణుడు సంతృప్తితో తన ఆనందబాష్పాలనును తుడుచుకుని, జగత్తుకే తల్లిదండ్రులైన విశ్వనాథుడిని, అన్నపూర్ణమ్మను దర్శనం చేసుకునేందుకు లేచాడు.

******************************

ఓం సర్వేషాం స్వస్తిర్భవతు | (ఓం అందరికీ శుభము కలుగుగాక.)

సర్వేషాం శాంతిర్భవతు | (అందరికీ శాంతి చేకూరుగాక.)

సర్వేషాం పూర్ణంభవతు | (అందరూ సంపూర్ణత్వముతో (తృప్తితో) ఉందురుగాక.)

సర్వేషాం మంగళంభవతు | (అందరికీ మంగళము (మేలు) జరుగుగాక.)

ఓం శాంతిః శాంతిః శాంతిః || 

******************************