काश्याः महान् आचार्यःKāśyāḥ Mahān Ācāryaḥ · The Great Teacher of Kashi

प्राचीनकाले आन्ध्रदेशे पिनाकिनीतीरे एकस्मिन् ग्रामे नारायणः नाम बालकः आसीत्| सः तस्मिन् ग्रामे स्थितात् कस्माच्चित् अध्यापकात् विद्यां प्राप्नोति स्म| नारायणः बहु बुद्धिमान्, , जिज्ञासावान् च| तस्मात् कारणात् अध्यापकस्य तस्मिन् बालके अमितप्रीतिः|

A teacher blesses a young student under a banyan tree by a river, as other students sit and watch.

एकस्मिन् दिने वर्गस्य कक्ष्यायाः पश्चात् नारायणः अध्यापकस्य शुश्रूषां कुर्वन् अस्ति| अध्यापकः प्रेम्णा, स्नेहेन तं नारायणं दृष्ट्वा वदति "वत्स, अहं यावत् जानामि तत् सर्वं भवन्तं पाठितवान्| परन्तु भवतः शिक्षां अत्र मा स्थगयतु| भवान् गणितं, विज्ञानशास्त्रान्, विविधानि दर्शनानि च पठित्वा पण्डितः भवतु" इति|

अध्यापकस्य वचनं श्रुतवान् नारायणः क्षणपर्यन्तं खिन्नः भवति, तथापि अध्यापकस्य उद्देश्यम् अवगत्य, तं नमस्कृत्य, "महानुभाव| भवतः आशीर्वादेन अहम् अग्रे अध्ययनम् अनुवर्तयिष्यामि| भवान् एव मार्गं दर्शयतु|" इति परिपृच्छति| अध्यापकः एकनिमेषं चिन्तयित्वा वदति, "वत्स, अहं मम जीवनस्य अधिकतमसमयम् एतस्मिन् ग्रामे एव आसम्| अतः योग्यम् आचार्यं भवान् कुत्र प्राप्स्यति इति अहं निश्चयेन वक्तुं न शक्नोमि| परन्तु उत्तमाः शिक्षकाः गर्तपुरी इत्यादिषु नगरेषु लभन्ते इति श्रुतवान्| गर्तपुरी इतः बहुदूरम् अस्ति, अतः सावधानेन यात्रां करोतु| शुभं भूयात्|"| नारायणः अध्यापकं प्रणिपत्य, आशीर्वादं स्वीकृत्य, अचिरेण गर्तपुरीं प्राप्नोति|

Narayana arrives at the bustling city of Kashi (Gartapuri) for the first time.

तावत्पर्यन्तं नारायणः गर्तपुरी सादृशं नगरं न दृष्टवान् आसीत्| गर्तपुरी तस्य स्वग्रामस्य अपेक्षया बहुगुणं ब्रुहत्तरम्| नारायणः गर्तपुर्यां केषाञ्चन शिक्षकानां दर्शनम् करोति| ते नारायणं गर्तपुर्याः समीपे कृष्णानदीतीरे स्थितं धान्यकटकनगरं गन्तुं सूचयन्ति, यतः तत्र महाविहारे अनेके आचार्याः सन्ति|

Narayana walks along the banks of the Krishna river towards Dhanyakataka.

नारायणः तान् नमस्कृत्य, धान्यकटके स्थिते महाविरामं प्राप्नोति| तत्र आचार्याणां शुश्रूषां कुर्वन्, तेभ्यः तर्कशास्त्रं, वादं, बौद्धदर्शनं च पठति| एकवर्षाभ्यन्तरे सः तेषु विषयेषु पारङ्गतः भवति| किन्तु तस्य जिज्ञासा अधिकमेव अभवत्|

तदा आचार्याणां सूचनात् उज्जयिनीं गच्छति| तत्र क्षिप्रानद्यां स्नानानन्तरं महाकालेश्वरस्य दर्शनं करोति| उज्जयिनी संस्कृतकवित्वाय, साहित्याय, गणिताय, खगोलशास्त्राय च प्रसिद्धा इति शृणोति| उज्जयिन्याः आचार्येभ्यः तेषां विषयाणाम् गबीराध्ययनं करोति| ते आचार्याः नारायणस्य प्रज्ञां, दीक्षां दृष्ट्वा बहुप्रसन्नाः भवन्ति| अचिरात् एव नारायणः तस्य स्वस्य उद्यमात्, आचार्याणाम् आशीर्वादेभ्यः अध्ययनं संपूर्णं करोति| तदा आचार्याः नारायणं उज्जयिन्यां एव अध्यापनं कर्तुं प्रोत्साहयन्ति|

परन्तु नारायणस्य जिज्ञासा अद्यापि न संतुष्टा| सः चिन्तयति, "अहं यद्यपि दर्शनान्, संस्कृतभाषां, शास्त्रान् च , तथापि एतस्य विश्वस्य सत्यं किम् इति न जानामि| तत् सत्यं मया ज्ञातव्यम्|" इति| तस्य अभीष्टं ज्ञात्वा आचार्याः नारायणस्य जिज्ञासां, दीक्षां च | ते वदन्ति, "वत्स, भवतः प्रश्नाः उन्नताः, गभीराः च, येषाम् उत्तराणि दातुं केवलं पाण्डित्यं न पर्याप्तम्| तदर्थं भवते एकः गुरुः आवश्यकम्, यस्य ज्ञानम् अस्माकं पाण्डित्यात् उपरि भवेत्| तादृशः गुरुः उज्जयिन्यां प्राप्तुं न शक्यते| परन्तु काश्यां तादृशाः ज्ञानसंपन्नाः गुरवः सन्ति इति श्रूयते| अतः भवान् काशीं गत्वा प्रयत्नं करोतु|" नारायणः आचार्यान् भक्त्या, कृतज्ञतया च प्रणिपातं कृत्वा, काशीं गच्छति|

Narayana bids farewell to his teachers in Ujjayini and departs for Kashi.

कशी साक्षात् शिवस्वरूपम् इति नारायणः श्रुतवान् आसीत्| यदा सः काशीं प्राप्नोति, तदा अमितम् आनन्दम् अनुभवति| प्रथमं पावनगङ्गानद्यां स्नानं कृत्वा, काश्याः क्षेत्रपालकस्य कालभैरवस्य, कशीपुराधीश्वर्याः अन्नपूर्णेश्वर्याः दर्शनं च कृत्वा, परमानन्दभरितः भवति| अन्ते नारायणः न केवलं काश्याः, किन्तु सर्वेषां लोकानां प्रभोः विश्वनाथस्य दर्शनं कृत्वा, रोमाञ्चितः भवति|

Narayana stands in awe before the Vishwanatha temple in Kashi.

नारायणः तस्य लक्ष्यं न विस्म्रुतवान्| एकस्य उत्तमस्य गुरोः अन्वेषणं कर्तुं काश्यां सञ्चरति| काश्यां यति देवालयाः सन्ति, तति विद्यालयाः अपि सन्ति इति सः अवलोकयति| काशीपुर्याम् अनेकान् विद्यालयान् पश्यति, यत्र आचार्याः विविधानि शास्त्राणि बोधयन्ति| अग्रिमेषु वर्षत्रयेषु नारायणः वेदान्तस्य, लोकायतस्य, हेतुद्रुष्ट्याः, गणितस्य, रसायनशास्त्रस्य, तर्कशास्त्रस्य च समुद्धताध्ययनं करोति| न केवलं भारतीयशास्त्रेषु, किन्तु अन्येषां देशानां शास्त्रेषु अपि सः प्रावीण्यं प्राप्नोति| कालान्तरे न केवलं छात्राः अपितु आचार्याः नारायणं एतेषु सर्वेषु शास्त्रेषु विद्वान् इति मन्यन्ते|

Narayana sits deep in thought in Kashi, wrestling with unanswered questions.

परन्तु अद्यापि नारायणः तस्य हृदयस्य गहने अनुभवति, तस्य ज्ञानम् असंपूर्णम् इति| एतेषां सर्वेषां शास्त्राणां कः संबन्धः? यद्यपि सर्वाणि शास्त्राणि सत्यमेव भासन्ते, तथापि यं विषयं किञ्चित् शास्त्रं बोधयति, अन्यत् किञ्चित् शास्त्रं तस्य विषयस्य विरोधं करोति इति अपि भासते| किं सत्यम्? वयं के? वयं एतस्मिन् लोके किमर्थं जाताः? अस्माकं जन्मनां कोऽपि अर्थः अस्ति किम्? अस्माकं शरीराणि विविधेभ्यः रसायनेभ्यः निर्मितानि इति स्पष्टम्| परन्तु रसायनेभ्यः परम् अस्माकम् अस्तित्वम् अस्ति किम्? यदि आत्मा वस्तुतः भवति, तर्हि कुत्र? आत्मानं द्रष्टुं वा, अनुभवितुं वा साध्यं किम्? वेदाः देवानां अस्तित्वम् उपदिशन्ति, अपितु बौद्धाः, जैनाः, लोकायताः च न| विज्ञानशास्त्राणि अपि तथ्यं केवलं प्रमाणात् एव अन्वेषणं कुर्वन्ति| एतान् सर्वान् समन्वयितुं शक्यमेव किम्? एतादृशाः प्रश्नाः विचाराः च नारायणं कुर्वन् आसन्|

नारायणः तस्य आचार्यान् एतान् प्रश्नान् परिपृच्छति, परन्तु सः तेषां उत्तरेभ्यः संतुष्टः न भवति| प्रत्येकः आचार्यः स्वस्य निपुणतायाः आधारेण परिशीलनं कृत्वा उत्तरान् ददाति| परन्तु नारायणः एतेषां सर्वेषां विषयाणां परस्परसंबन्धाः के इति प्रतिपादयितुं न शक्नोति| तस्मात् तस्य ज्ञानतृष्णा अधिका वर्धिता आसीत्|

एकस्मिन् शीतले सायङ्काले नारायणः एतान् विषयान् मनसि चिन्तयन् वारणास्याम् अटति| तस्य विचारान् झटिति लिखितुम् इच्छति, यतः अनन्तरं न विस्मरेत्| तत्र समीपे एकं गृहं पश्यति, यस्य दीपाः प्रकाशन्ते| तत्र उपविश्य चिन्तयन् लिखन् च आसीत्| तदा सः पृष्ठतः एकं कण्ठं शृणोति: "सर्वे सम्यक् प्रश्नाः एव, वत्स|"

यदा नारायणः पृष्ठतः पश्यति, तदा कश्चित् पण्डितः दृश्यते| तस्य पण्डितस्य मुखम् उज्ज्वलम्, दयापूर्णम् च अस्ति| तं दृष्ट्वा नारायणः अप्रयत्नेन नमस्कारं करोति| नारायणः पण्डितस्य तेजस्विनं मुखं दृष्ट्वा मुग्धः भवति| एषः पण्डितः सामान्यः नास्ति इति चिन्तयित्वा, तावत्पर्यन्तम् तस्य जीवितस्य, विद्याभ्यासस्य च विषयान् तं पण्डितं कथयित्वा, नारायणः, "महोदय, भवता सह वार्तालापस्य, चर्चायाः च द्वारा अहं महत् ज्ञानं प्राप्स्यामि इति भासते। अतः कृपया मां भवतः शिष्यस्य रूपेण स्वीकृत्य मां धन्यं करोतु", इति हस्तौ संयोज्य प्रार्थयति| पण्डितः मन्दं हसित्वा, "अहं काश्यां बहुकालात् वसामि| ध्यानं, स्वाध्यायं कुर्वन् अत्रैव भवामि| त्वया सद्रुशभिः जिज्ञासुभिः सह वार्तालापं कर्तुं मम अनन्दः| आवां मिलित्वा पठाव| मिलित्वा एतस्य लोकस्य विषयान्, रहस्यान् | परन्तु वत्स, मम एकः अस्ति| अहं रात्रौ एव पाठितुं शक्नोमि| यदि अयं त्वम् अङ्गीकरोसि, तर्हि आवाम् अद्यैव आरम्भं कर्तुं शक्नुवः" इति वदति| तत्क्षणं नारायणः पण्डितं प्रणम्य, तस्य प्रश्नान्, विचारान् पण्डितेन सह चर्चयितुम् आरभते|

Narayana meets his teacher for the first time on a cold evening in Kashi.

तदा आरभ्य प्रतिरात्रौ गुरुशिष्यौ तस्मिन् गृहे मिलित्वा, अनेकघण्टानाम् पर्यन्तं अध्ययनं कुरुतः| नारायणः सर्वेषु प्रकारेषु विषयेषु चर्चां कर्तुं सदा उत्सुकः| आचार्यः भवन्, नारायणेन सह संभाषयति| नारायणः कदापि न श्रान्तः भवति, आचार्यः अपि न| आचार्यः नारायणं न केवलं नवविषयान् बोधयति, किन्तु नवप्रश्नान् अपि प्रष्टुं प्रोत्साहयति| सः आचार्यः न केवलं भारतीय शास्त्रेषु, विज्ञानेषु, भाषासु च पण्डितः, किन्तु पारसिकेय, यवन, चीनीय भाषासु, शास्त्रेषु च ज्ञानी| बहुवारं नारायणः आचार्यस्य बुद्धेः, प्रतिभायाः च दृष्ट्वा | कदाचित् तयोः चर्चा आरात्रम् प्रचलति| तदा आचार्यः सः रात्रौ एव पाठितुं शक्नोति इति शिष्यं मृदुतया स्मारयित्वा अपगच्छति| अग्रिमे रात्रौ तद्विषये चर्चां पुनः आरम्भं कुरुतः| एवम् आचार्यस्य ज्ञानात्, स्नेहात्, प्रेरणात् च अध्ययनं कुर्वन् नारायणः अतिप्रसन्नः भवति|

एवं नारायणः आचार्यस्य निर्देशे त्रयः वर्षाः पर्यन्तं अस्ति| अस्मिन् काले आचार्यस्य प्रोत्साहेन नारायणः यान् विषयान् सः नवीनतया ज्ञातवान् वा, आविष्क्रुतवान् वा, तेषां विषये भाष्यान्, प्रबन्धान च लिखति| सः काश्यां स्थितेषु विद्यालयेषु एतान् नूतनान् विषयान् पाठयति| एतेषां कार्याणां द्वारा नारायणः स्वस्य हृदये प्रसन्नः भवति|

एकस्मिन् सायङ्काले नारायणः यथाप्रकारं गुरोः गृहं प्राप्नोति| तौ किञ्चित् कालं यावत् अध्ययनं, चर्चां च कुरुतः| अनन्तरम् आचार्यः प्रेम्णा स्वस्य हस्तं नारायणस्य शिरसि स्थापयति| यदा नारायणः हस्तौ संयोज्य आचार्यं पश्यति, तदा सः आचार्यस्य नेत्रयोः अमितप्रीतिं, किञ्चित् गर्वं च विन्दति| आचार्यः वदति "वत्स नारायण, श्वः आरभ्य आवां न मेलिष्यावः| तव विद्याभ्यासम् अनुवर्तय| अस्मिन् लोके ज्ञानस्य सीमाः न सन्ति| सदा कुतूहली भव| अध्ययनेन, विचारेण च विना कमपि विषयं मा स्वीकरोतु| यत् त्वम् अवगच्छसि वा अनुभवति वा, तत् एव त्वं जानासि| अन्ते, वत्स, एकं विषयं सदा मनसि स्थापयतु| एतस्मिन् लोके एकः एव पदार्थः अस्ति, यः तथा तथा वर्धते, यथा यथा दीयते| सः पदार्थः एव विद्या| अतः सदा विद्यां यः तं यच्छ" इति|

तत् श्रुत्वा नारायणः दुःखेन भवति| तेन किं वक्तव्यम् इति न जानाति| एकनिमेषानन्तरं अतिकष्टेन "आचार्यवर्य, किम् अभवत्? किमर्थं श्वः आरभ्य भवन्तं मेलितुं न शक्यते? कृपया एवं मा वदतु आर्य| भवतः कृपया अहं कियत् ज्ञानम्, विवेकं च इति वक्तुं न शक्नोमि| तस्मात् मयि दयालुः भूत्वा, कृपया भवान् सर्वदा माम् गुरुः भवतु|" इति आचार्यं याचति|

The teacher gazes at Narayana with eyes brimming with joyful tears as he reveals his true nature.

तदा आचार्यः नारायणं दृष्ट्वा, "वत्स, मां केवलं शारीरिकरूपेण न द्रक्ष्यसि| परन्तु मम प्रीतिः, आशीर्वादः च त्वयि सदा अस्ति| चिन्ता मास्तु वत्स| अस्मिन् लोके कोऽपि न भवति, अवश्यं न भवितव्यं अपि च|" इति वदन्, शनैः बृहत रूपं प्राप्नोति| नारायणः तत् दृश्यं दृष्ट्वा आश्चर्येन, सम्भ्रमेण च स्थाणुः भवति| तस्मात् आचार्यस्य कण्ठः एवं श्रूयते, "पुत्र नारायण, मम वचनं शृणु| द्शताब्देभ्यः पूर्वं अहं काश्यां सरस्वतीभट्ट नाम प्रसिद्धः पण्डितः आसम्| अहं मम गुरूणां कृपया, स्वस्य परिश्रमेण च बहुषु शास्त्रेषु पाण्डित्यं प्राप्तवान्| मम गुरूणाम् अपेक्षया अपि अहं अभवम्| तस्मिन् काले मम तुल्यः पण्डितः न केवलं काश्यां, किन्तु अखिलभरतखण्डे एव नास्ति इति जनाः वदन्ति स्म| परन्तु मम कर्मवशात्, दौर्भाग्यवशात् च मम पाण्डित्यात् मम औद्धत्यस्य वर्धनम् अभवत्| यदा अहं कञ्चित् पण्डितं वा, छात्रं वा पश्यामि स्म यः मम तुल्यः भवेत्, तदा मयि ईर्ष्या उद्भवति स्म| (मन्दं हसन्) अहो, मनुष्यस्य अहङ्कारः किं किं चिन्तयितुं, कर्तुं च प्रेरयति! अनेके विद्यालयाः माम् कृतवन्तः तेषु विद्यालयेषु पाठयितुम्| यद्यपि अहम् अङ्गीकरोमि स्म, तथापि मम समानः पण्डितः कोऽपि न भवेत् इति विचारात् मम पूर्णं ज्ञानं न पाठयामि स्म| एतादृशः विचारः कियान् दोषपूर्णः, अनैतिकः, अमानवीयः च इति मम मनः कदापि न आगच्छति स्म| कथञ्चित् मम अन्तिमेषु दिनेषु अहम् अवगतवान् एते विचाराः कियन्तः व्यर्थाः इति| परन्तु मम विलम्बः जातः| मम विद्यां संपूर्णतया न पाठयितुं कारणात् मरणानन्तरम् अहं ब्रह्मराक्षसः अभवम्| विमोचनमार्गस्य अन्वेषणं कुर्वन् सर्वत्र अटामि स्म। अहो, तानि दिनानि बहु दुःसहानि, वत्स, नारायण। ततः विंशतिवर्षाणां पश्चात् अहं भाग्यवशात् विदेहदेशे वर्धमान नाम महर्षेः दर्शनम् प्राप्तवान्। सः महर्षिः सत्यम् साक्षात् आत्मज्ञानी आसीत्। सः महानुभावः दयया, करुणया च माम् अनुग्रहीतवान्। यद् सुभाषितम् सः मां स्मारयितवान्, तद् अहम् कदापि न विस्मरामि, वत्स। यथा धेनु सहस्त्रेषु वत्सो विन्दति मातरम् | तथा पुराकृतं कर्म कर्तारमनुगच्छति || मया अवगतं, मया कृतः दोषः मया एव परिहरणीयः इति| ततः प्रभृति अहं येषां छात्राणाम् अन्वेषणं कुर्वन् आसम्, ये मम ज्ञानं प्राप्तुं शक्नुवन्ति| येषां जिज्ञासा अग्निः इव ज्वलति| यदा केभ्यश्चित् वर्षेभ्यः पूर्वं त्वां दृष्टवान्, तदा अहं मन्ये त्वं ज्ञानाय कल्पसे इति| अचिरात् मम मूल्याङ्कनं सम्यक् अस्ति इति ज्ञात्वा |"

आचार्यस्य कथां श्रुत्वा नारायणः भवति| केषाञ्चित् क्षणानां पश्चात् नारायणः गुरुं प्रणम्य एवं भाषते, "आचार्य, मम कस्माच्चित् पूर्वजन्मसुकृतात् अहं भवतः शिष्यः अभवम्| गुरोः ऋणं वस्तुतः कोऽपि कदापि न प्रत्यर्पितुं शक्नोति| परन्तु स्वस्य तृप्त्यर्थम् अहं भवते किञ्चन दातुं वा, कर्तुं वा कामये| मयि कृपा कृत्वा निर्दिशतु"|

मन्दं हसन् आचार्यः करुणापूर्णेन कण्ठेन, "यः अस्मिन् लोके न , तस्मै किम् आवश्यकम्? तथापि अहं त्वाम् एकं विषयं वक्तुम् इच्छामि वत्स| ज्ञानस्य जाति वा, देशः वा, वा, वा नास्ति। ज्ञानस्य सीमाः एव न सन्ति। ज्ञानं कदापि न | यद् त्वम् इदानीं निश्चयेन सत्यम् इति चिन्तयसि, केषाञ्चित् वर्षाणाम् अनन्तरं तद् किञ्चित् भिन्नम् इति ज्ञास्यसि| अहो (मन्दं हसन्), यदा अहं त्वया सह पठन् आसम्, तदा येषु विषयेषु अहं पारङ्गतः इति भावयामि स्म, तेषु मम ज्ञानम् असंपूर्णं वा, मिथ्या वा इति ज्ञातवान्| सदा नूतनं ज्ञानम् | तदेव विद्यायाः रहस्यम्| तस्मात् वत्स, सः पण्डितः न, यः कांश्चन विषयान् कस्मिंश्चित् समये ज्ञात्वा, त्यजति| यः अविरतम् अध्ययनं करोति, सः एव पण्डितः| अतः ज्ञानं एकं भाण्डारं इति कदापि मा चिन्तय| ज्ञानम् एषा गङ्गावत् अविरतं , च| नारायण, तस्यां ज्ञानगङ्गायां त्वं | तव ज्ञानं सर्वेभ्यः योग्येभ्यः प्रसारय| काश्याः महान् आचार्यः नारायणः इति समस्तलोकाः वदेयुः| शुभं भूयात्|" इति वदति|

एवं विमोचनं प्राप्तवान् आचार्यः रूपेण शनैः विश्वनाथस्य मन्दिरं प्राप्य, एकवारं चन्द्रवत् उज्ज्वलः भूत्वा, चन्द्रशेखरे ऐक्यम् अभवत्| तत् दृष्ट्वा नारायणः संतोषेण आनन्दबाष्पान् मार्जयित्वा, जगतः पित्रोः विश्वनाथस्य अन्नपूर्णायाः च दर्शनाय गन्तुम् उत्थिष्टति|

ॐ सर्वेषां स्वस्तिर्भवतु।

सर्वेषां शान्तिर्भवतु।

सर्वेषां पूर्णंभवतु।

सर्वेषां मङ्गलंभवतु।

ॐ शान्तिः शान्तिः शान्तिः॥

शब्दकोशःVocabulary

प्रयत्नवान्
Hardworking, Diligent
अधीतवान्
Studied
श्लाघन्ति
Praise
परिव्याकुली
To Confound, To Confuse, To Trouble
इतोऽपि
Even more, Still
अन्तरावेदी
Verandah, Courtyard
पितृव्यः
Elderly
अनुसन्धाति
To Explore, To Investigate
संरोधः
Restriction, Limitation
तितिक्षुः
Patient
गहनता
Depth, Profundity
विस्मयते
Astonished
भूयस्
In addition, Moreover
आचार्यत्वेन
As a teacher
अन्विच्छति
To Seek, To Desire
आकुलः
Stunned, Aghast
रुद्धकण्ठेन
With choked throat (full of emotion)
अर्जितवान्
Gained, Earned
आनन्दाश्रुपूर्णनेत्राभ्यां
With eyes filled with joyous tears
शाश्वतया
Permanently
कान्तिपुञ्जः
Light beam
वयः
Age
कालान्तरात्
Over time
सुज्ञः
Knowledgeable
अनुरोधः
Request
अमोदे
Felt happy/delighted (past tense of मोदे)
कृतविस्मयः
Astonished
वर्तिष्यते
Not going to exist (future tense of वर्तें)
मतम्
Faith, Belief, Religion
स्थिरम्
Constant, Unchanging
आप्नुयाः
Should gain/obtain (आप्नोति)
प्रवहेत्
Should flow (प्रवहति)
वर्धेत
Should grow (वर्धति)
समुन्नततरङ्गः
High wave
भवेः
Should be (Madhyama Purusha)