Vidyakara recoils from a toy snake in a lamplit chamber, his bedding and palm-leaf manuscripts beside him.

तेनाली रामकृष्णस्य प्रज्ञाTenāli Rāmakṛṣṇasya Prajñā · Tenali Ramakrishna's Intelligence

तेनालि रामकृष्णः श्रीकृष्णदेवरायस्य सभायां कविः अस्ति स्म| एकदा एकः पण्डितः श्रीकृष्णदेवरायस्य सभाम् आगच्छति| पण्डितः श्रीकृष्णदेवरायं नमस्कृत्य एवं वदति - “हे राजन्! मम नाम विद्याकरः| अहं काशीतः आगतवान्| अहं द्वादशभाषासु पण्डितः| मम मातृभाषा का इति कः अपि ज्ञातुं शक्नोति किम्?” राजा चिन्तयित्वा वदति - “पण्डितवर्य, वयं श्वः पुनर्मिलाम|”

राजा रामकृष्णं साहाय्यार्थम् पृच्छति| रामकृष्णः एकम् उपायं चिन्तयति| सायङ्काले रामकृष्णः विद्याकरस्य कक्षायाम् एकं क्रीडासर्पं त्यजति| विद्याकरः सर्पं , भयेन “ओयम्मो पामु, पामु!” (“हे अम्ब - सर्पः, सर्पः”) इति |

अग्रिमे दिने सभायां रामकृष्णः वदति - “हे विद्याकर! भवतः मातृभाषा तेलुगु” इति| विद्याकरः अङ्गीकरोति| श्रीकृष्णदेवरायः प्रसन्नः भूत्वा रामकृष्णं, विद्याकरं च अभिनन्दति|

शब्दकोशःVocabulary

दृष्ट्वा
Having seen
आक्रोशति
To Scream, To Cry Out Loud