तेनाली रामकृष्णस्य प्रज्ञा

तेनालि रामकृष्णः श्रीकृष्णदेवरायस्य सभायां कविः अस्ति स्म| एकदा एकः पण्डितः श्रीकृष्णदेवरायस्य सभाम् आगच्छति| पण्डितः श्रीकृष्णदेवरायं नमस्कृत्य वदति – “हे राजन्! मम नाम विद्याकरः| अहं काशीतः आगतवान्| अहं द्वादश भाषाः वक्तुं शक्नोमि| मम मातृभाषा का?” इति । राजा चिन्तयित्वा वदति – “पण्डितवर्य, वयं श्वः पुनर्मिलामः|”
राजा रामकृष्णम् साहाय्यार्थम् पृच्छति| रामकृष्णः एकं उपायं चिन्तयति| सायङ्काले रामकृष्णः विद्याकरस्य कक्षायाम् एकं क्रीडासर्पं त्यजति| विद्याकरः सर्पं दृष्ट्वा, भयेन “ఓయమ్మో పాము పాము!” (“हे माता – सर्पः, सर्पः”) इति आक्रन्दयति|
अग्रिमे दिने सभायां रामकृष्णः वदति – “हे विद्याकर| भवतः मातृभाषा तेलुगु” इति| विद्याकरः अङ्गीकरोति|
श्रीकृष्णदेवरायः प्रसन्नः भूत्वा रामकृष्णं, विद्याकरं च अभिनन्दति|
मनुष्यः यदा भये भवति, तदा सः आत्मनः मातृभाषया एव भाषते।
